मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १

संहिता

उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ ।
स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥

पदपाठः

उ॒भय॑म् । शृ॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ ।
स॒त्राच्या॑ । म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥

सायणभाष्यम्

उभयं स्तोत्रात्मकं शस्त्रात्मकं चोभयविधं नोस्माकमिदं वचोर्वागस्मदभिमुखं इन्द्रः शृणवत् शृणोतु श्रुत्वाच सत्राच्या अस्माकं सहांचत्या धिया युक्तःसन् मधवा शविष्ठोतिशयेन बलवानागमदागच्छतु सोमपीतये सोमपानाय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६