तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतु॑ः ।
उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥
तम् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ इति॑ । निः॒ऽत॒त॒क्षतुः॑ ।
उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मनः॑ ॥
तं हि तं खल्विन्द्रं स्वराजं स्वयमेवराजमानं धिषणे द्यावापृथिव्यौ वृषभं जगदुपकारकस्य वृष्णेर्वर्षकं निष्टतक्षतुः संचस्करतुः । तं तमेवेन्द्रं ओजसे बलाय निष्टतक्षतुः उत यस्मादेवं तस्माद्धे इन्द्रोपमानां उपमानभूतानांअन्येषां देवानां मध्ये प्रथमो मुख्यः सन् निषीदसि वेद्यां सोमकामं हिखलु ते मनः ॥ २ ॥