मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् ३

संहिता

आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः ।
वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥

पदपाठः

आ । वृ॒ष॒स्व॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । सु॒तस्य॑ । इ॒न्द्र॒ । अन्ध॑सः ।
वि॒द्म । हि । त्वा॒ । ह॒रि॒ऽवः॒ । पृ॒त्ऽसु । स॒स॒हिम् । अधृ॑ष्टम् । चि॒त् । द॒धृ॒ष्वणि॑म् ॥

सायणभाष्यम्

हे पुरूवसो बहुधनेन्द्र त्वमावृषस्व आसिञ्चस्व । किं सुतस्यान्धसः सुतमन्धः सोमं जठरे । हे हरिवो हरिभ्यां तद्वन्निन्द्र त्वा त्वां विद्महि जानीमः खलु । कीदृशं पृत्सु संग्रामेषु सासहिं अभिभवितारं शत्रूणां अधृष्टंचित् कैरप्यधर्षणीयं दधृष्वणिमन्येषां धर्षकं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६