मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् ५

संहिता

श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥

पदपाठः

श॒ग्धि । ऊं॒ इति॑ । सु । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
भग॑म् । न । हि । त्वा॒ । य॒शस॑म् । व॒सु॒ऽविद॑म् । अनु॑ । शू॒र॒ । चरा॑मसि ॥

सायणभाष्यम्

हे शचीपते इन्द्र शग्धि देहि सु सुष्ठु अभिमतं विश्वाभिः सर्वाभिः ऊतिभिः रक्षकैः मरुद्भिः सह । हे शूर भगंन भाग्यमिव यशसं यशस्विनं वसुविदं धनस्यलंभकं त्वा त्वां अनुचरामसि अनुचरामः परिचरामेत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६