मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् ६

संहिता

पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ ।
नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥

पदपाठः

पौ॒रः । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ।
नकिः॑ । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं अश्वस्य पौरः पूरयिता भवसि । तथा गवां पुरुकृत् बहुकर्तासि । हे देव हिरण्ययः हिरण्मयशरीरस्त्वं उत्सः उत्ससदृशोसि । हे इन्द्र त्वे त्वयि वर्तमानं दानमस्मद्विषयं देयं धनं वा नकिर्हि परिमर्धिषत् नकश्चिदपि हिनस्ति अतो यद्यद्यामि याचे तदाभराहर मह्यम् ॥ ६ ॥ यद्यग्निष्टोमेबृहत्साम तदानीं निष्केवल्ये प्रगाथोनुरूपः । सूत्रितञ्च-त्वंह्येहिचेरवइति प्रगाथाएते भवन्तीति । महाव्रते निष्केवल्ये उत्तरपक्षेयं- प्रगाथः तथैव पंचमारण्यकेसूत्रितम्-त्वामिद्धिहवामहे त्वंह्येहिचेरवइति बृहत्स्तोत्रियानुरूपौ प्रगाथाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७