मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् ७

संहिता

त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये ।
उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ॥

पदपाठः

त्वम् । हि । आ । इ॒हि॒ । चेर॑वे । वि॒दाः । भग॑म् । वसु॑त्तये ।
उत् । व॒वृ॒ष॒स्व॒ । म॒घ॒ऽव॒न् । गोऽइ॑ष्टये । उत् । इ॒न्द्र॒ । अश्व॑म्ऽइष्टये ॥

सायणभाष्यम्

हे इन्द्र त्वंहि त्वंखलु चेरवे सामर्थ्याद्दातेति गम्यते अतएह्यागच्छ आगत्यचास्मभ्यं भगं भजनीयं धनं विदाः लभस्व दत्स्व । किमर्थं वसुत्तये अस्माकं वसुदानाय हे मघवन् गविष्टये गाइच्छते मह्यं उद्ववृषस्वोत्सिञ्चस्व गामितिशेषः । तथा हे इन्द्राश्वमिष्टयेश्वैषणवते मह्यं अश्वानुद्व- वृषस्वोत्सिञ्चस्व देहि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७