मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् ८

संहिता

त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे ।
आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥

पदपाठः

त्वम् । पु॒रु । स॒हस्रा॑णि । श॒तानि॑ । च॒ । यू॒था । दा॒नाय॑ । मं॒ह॒से॒ ।
आ । पु॒र॒म्ऽद॒रम् । च॒कृ॒म॒ । विप्र॑ऽवचसः । इन्द्र॑म् । गाय॑न्तः । अव॑से ॥

सायणभाष्यम्

हे इन्द्र त्वं पुरु पुरुणि बहूनि सहस्राणि शतानिच यूथा गवादियूथानि दानाय यजमानविषयाय मंहसे अनुमन्यसे । यद्वा दानाय दात्रे यजमानाय मंहसे प्रयच्छसि मंहतिर्दानकर्मा । अथपरोक्षेण ब्रवीति-पुरन्दरं शत्रुपुराणां दारयितारमिन्द्रं अवसे रक्षणाय प्रीतयेवा गायन्तः स्तुवन्तो विप्रवचसः विविधप्रकृष्टवचनावयं आ आगन्तारमभिमुखंवा चकृम कुर्मः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७