मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १०

संहिता

उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धव॑म् ।
व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥

पदपाठः

उ॒ग्रऽबा॑हुः । म्र॒क्ष॒ऽकृत्वा॑ । पु॒र॒म्ऽद॒रः । यदि॑ । मे॒ । शृ॒णव॑त् । हव॑म् ।
व॒सु॒ऽयवः॑ । वसु॑ऽपतिम् । श॒तऽक्र॑तुम् । स्तोमैः॑ । इन्द्र॑म् । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

उग्रबाहुः उद्रूर्णभुजो म्रक्षकृत्वा वधकर्ता शत्रूणां पुरन्दरः पुराणां दारयितेन्द्रः यदि मे हवं शृणवत् शृणुयात् तर्हि वसूयवो वसुकामावयं वसुपतिं बहुधनस्वामिनं शतक्रतुं अपरिमितप्रज्ञमिन्द्रं स्तोमैः स्तोत्रैः हवामहे आह्वयामः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७