मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् ११

संहिता

न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः ।
यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥

पदपाठः

न । पा॒पासः॑ । म॒ना॒म॒हे॒ । न । अरा॑यासः । न । जळ्ह॑वः ।
यत् । इत् । नु । इन्द्र॑म् । वृष॑णम् । सचा॑ । सु॒ते । सखा॑यम् । कृ॒णवा॑महै ॥

सायणभाष्यम्

वयमिन्द्रं पापासः पापाः अकृतपुण्याः ब्रह्मचर्यव्रतादिरहिताः न मनामहे न मन्यामहे तथा अरायासोऽराया अधनावा अहविष्कावा न मनामहे न जल्हवः अज्वलनाः अनग्नयोन मनामहे कृतव्रतनियमादिपुण्याः दानवन्तोग्निसहितास्तंस्तुमइति ऋषिरात्मानमाह । यदित् यस्मादेव कारणात् नु इदानीं वृषणं वर्षकमिन्द्रं सुते सोमेभिषुते सचा सहिताः सखायं कृणवामहै कुर्मः तस्मात्पापादिरहिताः मनामहे पापादिविशिष्टानामिन्द्रसाहा- य्यकरणासंभवात् । अत्र नपापामन्यामहइत्यादिनिरुक्तम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८