मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १२

संहिता

उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् ।
वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥

पदपाठः

उ॒ग्रम् । यु॒यु॒ज्म॒ । पृत॑नासु । स॒स॒हिम् । ऋ॒णऽका॑तिम् । अदा॑भ्यम् ।
वेद॑ । भृ॒मम् । चि॒त् । सनि॑ता । र॒थिऽत॑मः । वा॒जिन॑म् । यम् । इत् । ऊं॒ इति॑ । नश॑त् ॥

सायणभाष्यम्

उग्रमुद्रूर्णबलमिन्द्रं युयुज्म योजयामः । कीदृशमिन्द्रं पृतनासु संग्रामेषु सासहिं शत्रूणामभिभवितारं ऋणकातिं ऋणभूतस्तुतिं यस्मै स्तुतिऋणवद- वश्यंक्रियते तं तादृशं अथवा ऋणवदवश्यफलप्रदस्तुतिकं अदाभ्यं केनाप्यहिंस्यम् । यइन्द्रो भृमंचित् बहुष्वश्वेषु भ्रमणशीलमेव वाजिनं बलवन्तमश्वं रथीतमः रथस्वामी देवः वेद वेत्ति गृह्णाति तद्वत् सनितेन्द्रो वाजिनं हविष्मन्तं यमित् यमेव जनं बहूनां यजमानानां मध्ये नशत् व्याप्नोति तमिन्द्र- मिति ते वयमितिवा योज्यम् । वयं युयुज्मेति पक्षे व्यत्ययेन बहुवचनम् ॥ १२ ॥ चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकस्य यतइन्द्रेति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितञ्च । यतइन्द्रभयामहे यथागौरोअपाकृतमिति । दुःस्वप्नदर्शनेप्येतदादिसूक्तशेषोजप्यः सूत्रितं च-यतइन्द्रभयामहइतिच सूक्तशेषम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८