मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १३

संहिता

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥

पदपाठः

यतः॑ । इ॒न्द्र॒ । भया॑महे । ततः॑ । नः॒ । अभ॑यम् । कृ॒धि॒ ।
मघ॑ऽवन् । श॒ग्धि । तव॑ । तम् । नः॒ । ऊ॒तिऽभिः॑ । वि । द्विषः॑ । वि । मृधः॑ । ज॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र यतोहिंसकात् भयामहे वयं ततोनोस्मभ्यमभयंकृधि कुरु । हे मघवन् शग्धि शक्तोभवसि नोस्मभ्यमभयं कर्तुं तव तत्तैरूतिभीरक्षणैरक्षकैः पुरुषैः । किञ्च विजहि द्विषोस्मद्द्वेष्टॄन् विजहि मृधोस्मद्धिंसकान् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८