मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १४

संहिता

त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः ।
तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥

पदपाठः

त्वम् । हि । रा॒धः॒ऽप॒ते॒ । राध॑सः । म॒हः । क्षय॑स्य । असि॑ । वि॒ध॒तः ।
तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे राधस्पते धनस्वामिन् त्वंखलु महो महतो राधसो धनस्य क्षयस्यच गृहस्य च वर्धयितासि खलु सामर्थ्यादेवं लभ्यते । कस्य राधसोगृहस्यच वर्धकइति । उच्यते-विधतः परिचरतो यजमानस्य । तं तादृशं त्वा त्वां वयं हे मघवन्निन्द्र गिर्वणोगीर्भिर्वननीय सुतावन्तोभिषुतसोमा हवामहे आह्वयाम ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८