मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १५

संहिता

इन्द्र॒ः स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः ।
स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥

पदपाठः

इन्द्रः॑ । स्पट् । उ॒त । वृ॒त्र॒ऽहा । प॒रः॒ऽपाः । नः॒ । वरे॑ण्यः ।
सः । नः॒ । र॒क्षि॒ष॒त् । च॒र॒मम् । सः । म॒ध्य॒मम् । सः । प॒श्चात् । पा॒तु॒ । नः॒ । पु॒रः ॥

सायणभाष्यम्

अयमिन्द्रः स्पट् सर्वस्य ज्ञाता स्पशतिर्ज्ञानकर्मा उतायं वृत्रहा वृत्रहन्ता परस्पाः परस्य पालयिता नोस्माकं वरेण्यः वरणीयः सइन्द्रोनोस्माकं पुत्रमितिशेषः रक्षिषत् रक्षतु चरमं पुत्रं तथा सरक्षिषत् । समध्यमं पुत्रं रक्षिषत् सनोस्मान्पश्चात्पातु रक्षतु नः पुरः पुरस्ता द्रक्षतु ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८