मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १६

संहिता

त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वतः॑ ।
आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥

पदपाठः

त्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र॑ । नि । पा॒हि॒ । वि॒श्वतः॑ ।
आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य॑म् । भ॒यम् । आ॒रे । हे॒तीः । अदे॑वीः ॥

सायणभाष्यम्

हे इन्द्र त्वं नोस्मान्पश्चात् पश्चाद्भागात् पुरः पूर्वभागादधरादधोभागादेतदुपरिभागस्योपलक्षणं उत्तरादुत्तरभागात् एतद्दक्षिणस्याप्युपलक्षणं किंबहुना विश्वतः सर्वस्मात्प्रदेशान्निपाहि । हे इन्द्र दैव्यं भयं अस्मदस्मत्तआरे दूरे कृणुहि कुरु । तथा अदेवीरासुराणि हेतीः आयुधानि आरे कृणुहि ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९