मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १८

संहिता

प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घ॒ः सम्मि॑श्लो वि॒र्या॑य॒ कम् ।
उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतु॑ः ॥

पदपाठः

प्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् ।
उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥

सायणभाष्यम्

अयं मघवेन्द्रः प्रभंगी प्रभञ्चनशीलः शूरः तुवीमघः प्रभूतधनः संमिश्लः सम्यग्मिश्रयिता किमर्थं वीर्याय शत्रूणां वीर्यकरणाय कमितिपूरणः एवं महानुभावोभवति । अथ प्रत्यक्षवादः-हे इन्द्र ते उभा उभावपि बाहू वृषणा वर्षकौ कामानां हे शतक्रतो बहुप्रज्ञ या यौ वज्रमायुधं निमिमिक्षतुः परिगृह्णीतः ॥ १८ ॥

प्रोअस्माइति द्वादशर्चं तृतीयं सूक्तं काण्वस्य प्रगाथस्यार्षं पञ्चपदापंक्तिः सप्तम्याद्यास्तिस्रोबृहत्यः इन्द्रोदेवता । अत्रानुक्रमणिका-प्रोअस्मैद्वादश प्र- गाथः पाङ्क्तं सप्तम्याद्याश्च तिस्रोबृहत्यइति । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९