मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् १

संहिता

प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति ।
उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुतिम् । भर॑त । यत् । जुजो॑षति ।
उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

अस्माइन्द्रायोपस्तुतिंउपेत्यक्रियमाणांस्तुतिं प्रोभरत प्रकर्षेण संपादयत हे ऋत्विजः । यद्यदि अयमिन्द्रो जुजोषति सेवते तर्हि भरतेति । सोमिनः सोमप्रियस्येन्द्रस्य स्वभूतं माहिनं महत् वयोन्नं सोमलक्षणं उक्थैः शस्त्रैः वर्धन्ति वर्धयन्ति भद्राः स्तुत्यानि खल्विन्द्रस्य रातयो दानानि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०