मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् ४

संहिता

आ या॑हि कृ॒णवा॑म त॒ इन्द्र॒ ब्रह्मा॑णि॒ वर्ध॑ना ।
येभि॑ः शविष्ठ चा॒कनो॑ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

आ । या॒हि॒ । कृ॒णवा॑म । ते॒ । इन्द्र॑ । ब्रह्मा॑णि । वर्ध॑ना ।
येभिः॑ । श॒वि॒ष्ठ॒ । चा॒कनः॑ । भ॒द्रम् । इ॒ह । श्र॒व॒स्य॒ते । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

हे इन्द्र आयात्द्यागच्छ ते कृणवाम किं ब्रह्माणि परिवृढानि स्तुतिलक्षणानि कर्माणि । कीदृशानि वर्धना उत्साहवर्धकानि । येभिर्यैः कर्मभिः हे शविष्ठातिशयेन बलवन्निन्द्र चाकनः कामयसे । किं भद्रं कर्तुम् । कस्मै श्रवस्यतेन्नमिच्छते स्तोत्रे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०