मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् ५

संहिता

धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑ कृ॒णोषी॑न्द्र॒ यत्त्वम् ।
ती॒व्रैः सोमै॑ः सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

धृ॒ष॒तः । चि॒त् । धृ॒षत् । मनः॑ । कृ॒णोषि॑ । इ॒न्द्र॒ । यत् । त्वम् ।
ती॒व्रैः । सोमैः॑ । स॒प॒र्य॒तः । नमः॑ऽभिः । प्र॒ति॒ऽभूष॑तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

हे इन्द्र धृषतश्चित् धृष्टादपि धृषत् धृष्टं मनः कृणोषि अत्यन्तं धृष्टं करोषि । यद्यस्मात्त्वं तीव्रैः मदजमकैः सोमैः सपर्यतः पूजयतो नमोभिर्नमस्कारै- श्च प्रतिभूषतोलंकुर्वतो यजमानस्य अभिमतं दित्ससीतिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०