मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् ७

संहिता

विश्वे॑ त इन्द्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः ।
भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

विश्वे॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । दे॒वाः । अनु॑ । क्रतु॑म् । द॒दुः॒ ।
भुवः॑ । विश्व॑स्य । गोऽप॑तिः । पु॒रु॒ऽस्तु॒त॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

हे इन्द्र ते तव वीर्यं सामर्थ्यं क्रतुं प्रज्ञाञ्च अनु अनुसृत्य विश्वे सर्वे देवाः दधुः धारयन्ति वीर्यं प्रज्ञांच तव बलेन प्रज्ञयाच तेपि बलिनः प्रज्ञावन्तश्च भवन्तीत्यर्थः । तादृशस्त्वं गोपतिः प्रसिद्धानां गवामुदकानां स्तुतिवचसोवा पतिर्भुवोभवसि विश्वस्येत्येतत्पदांतर्गतस्यापि गोशब्दस्य विशेषः । हे पुरुष्टुत बहुभिः स्तुतेन्द्र भवसीति समन्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१