मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् ८

संहिता

गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये ।
यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

गृ॒णे । तत् । इ॒न्द्र॒ । ते॒ । शवः॑ । उ॒प॒ऽमम् । दे॒वऽता॑तये ।
यत् । हंसि॑ । वृ॒त्रम् । ओज॑सा । श॒ची॒ऽप॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

हे इन्द्र ते तव तच्छवोबलं उपमं अन्तिकं देवतातये यजमानाय यज्ञार्थंवा गृणे स्तुवे । यद्यस्माद्धेशचीपते वृत्रं ओजसा बलेन हंसि तस्मात्ते शवोगृणे ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१