मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् ९

संहिता

सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा ।
वि॒दे तदिन्द्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

सम॑नाऽइव । व॒पु॒ष्य॒तः । कृ॒णव॑त् । मानु॑षा । यु॒गा ।
वि॒दे । तत् । इन्द्रः॑ । चेत॑नम् । अध॑ । श्रु॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

समनेव समानमनस्का योषिदिव सायथा वपुष्यतो वपुरिच्छतः पुरुषान् कृणवत्करोति स्ववशान् एवमयमिन्द्रो मानुषा मनुष्यान् युगा युगानि कालान्संवत्सरायनर्तुमासादीन्विदे लंभयति तद्युगनिर्माणात्मकं कर्म इन्द्रश्चेतनं सर्वस्य प्रज्ञापकं कृतवानिति शेषः । अध अथैवं कृत्वा श्रुतः सर्वत्र ख्यातोभूत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१