मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् १०

संहिता

उज्जा॒तमि॑न्द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतु॑म् ।
भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

उत् । जा॒तम् । इ॒न्द्र॒ । ते॒ । शवः॑ । उत् । त्वाम् । उत् । तव॑ । क्रतु॑म् ।
भूरि॑गो॒ इति॒ भूरि॑ऽगो । भूरि॑ । व॒वृ॒धुः॒ । मघ॑ऽवन् । तव॑ । शर्म॑णि । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

हे इन्द्र उत् । अयं व्यवहितेनापि ववृधुरित्यनेन संबध्यते । उद्वर्धयन्ति सोमेन । कि ते तवजातमुत्पन्नं शवोबलम् । नकेवलं बलं किन्तु त्वा मुद्वर्धयन्ति स्तुत्यादिना पश्चात्तव क्रतुं प्रज्ञां स्वानुकूलां उद्वर्धयन्ति भूरीत्येतत्प्रत्याख्यातं संबध्यते अति प्रभूतमुद्वर्धयन्तीत्यर्थः । कएवंकुर्वन्तीति उच्यते-हे भूरिगो बहुपशो हे मघवन्धनवन्निन्द्र तव शर्मणि त्वदीये सुखे ये वर्तन्ते तेच कुर्वन्तीति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१