मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् १

संहिता

स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे ।
यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥

पदपाठः

सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ ।
यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥

सायणभाष्यम्

सइन्द्रः पूर्व्योमुख्योमहानां पूज्यानां यजमानानां क्रतुभिः कर्मभिर्निमित्तभूतैः वेनः कान्तस्तेषां हविः कामयमानः आनजे आगच्छति । यस्येन्द्रस्य द्वारा द्वाराणि प्राप्त्युपायानि धियः कर्माणि देवेष्वेतेषुमध्ये पिता सर्वेषां पालको मनुरानजे प्राप । आनजिःप्राप्तिकर्मा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२