मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् २

संहिता

दि॒वो मानं॒ नोत्स॑द॒न्त्सोम॑पृष्ठासो॒ अद्र॑यः ।
उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥

पदपाठः

दि॒वः । मान॑म् । न । उत् । स॒द॒न् । सोम॑ऽपृष्ठासः । अद्र॑यः ।
उ॒क्था । ब्रह्म॑ । च॒ । शंस्या॑ ॥

सायणभाष्यम्

दिवो द्युलोकस्य मानं निर्मातारमिन्द्रं नोत्सदन् नोत्सृजन्तु । के सोमपृष्ठासः सोमस्प्रष्टारः सोमाभिषवकर्तारः अद्रयोग्रावाणः । किञ्चोक्था उक्थानि शस्त्राणि ब्रह्मच ब्रह्माणि स्तोत्राणि शंस्या शंसनीयानि भवन्तीतिशेषः । यद्वा यानि स्तोत्राणि शस्त्राणि च सन्ति तानीन्द्रं नोत्सृजन्त्विति समन्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२