मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् ३

संहिता

स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ ।
स्तु॒षे तद॑स्य॒ पौंस्य॑म् ॥

पदपाठः

सः । वि॒द्वान् । अङ्गि॑रःऽभ्यः । इन्द्रः॑ । गाः । अ॒वृ॒णो॒त् । अप॑ ।
स्तु॒षे । तत् । अ॒स्य॒ । पौंस्य॑म् ॥

सायणभाष्यम्

सविद्वानुपायज्ञः इन्द्रोङ्गिरोभ्यः तेषामर्थाय गाः पणिभिरपहृताः पिहिता अपावृणोत् अपवारितवान् तत्तादृशमस्य पौंस्यं पुंस्त्वं सामर्थ्यं स्तुषे स्तौमि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२