मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् ४

संहिता

स प्र॒त्नथा॑ कविवृ॒ध इन्द्रो॑ वा॒कस्य॑ व॒क्षणि॑ः ।
शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा ग॒न्त्वव॑से ॥

पदपाठः

सः । प्र॒त्नऽथा॑ । क॒वि॒ऽवृ॒धः । इन्द्रः॑ । वा॒कस्य॑ । व॒क्षणिः॑ ।
शि॒वः । अ॒र्कस्य॑ । होम॑नि । अ॒स्म॒ऽत्रा । ग॒न्तु॒ । अव॑से ॥

सायणभाष्यम्

सइन्द्रः प्रत्नथा प्रत्नवत् पूर्वस्मिन्काले यथा तद्वदिदानीमपि कविवृधः मेधाविनां स्तोतॄणां वर्धयिता वाकस्य स्तोतुः वक्षणिः वोढा शिवः सुखकरः अर्कस्य अर्कमन्नं अर्चनीयत्वादर्चनसाधनत्वाद्वा तादृशस्य सोमस्य होमनि होमे सअस्मत्रा अस्मासु निमित्तभूतेषु अवसे रक्षणाय गन्तु गच्छतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२