मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् ५

संहिता

आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः ।
श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥

पदपाठः

आत् । ऊं॒ इति॑ । नु । ते॒ । अनु॑ । क्रतु॑म् । स्वाहा॑ । वर॑स्य । यज्य॑वः ।
श्वा॒त्रम् । अ॒र्काः । अ॒नू॒ष॒त॒ । इन्द्र॑ । गो॒त्रस्य॑ । दा॒वने॑ ॥

सायणभाष्यम्

आदु अनन्तरमेव नु अद्य हे इन्द्र ते तव क्रतुं कर्म अनुक्रमेण अनुषतेति संबंधः । अनुक्रमेण स्तुवन्ति के स्वाहावरस्य स्वाहादेव्याः पतेरग्नेः यज्यवो- यष्टारः तदर्थमग्नौ यागं कुर्वन्तइत्यर्थः । तादृशाअर्काः अर्चयितारः स्तोतारः श्वात्रमिति क्षिमनाम अन्यदेवतास्तुतिरूपं विलंबमकृत्वातिशीघ्रमति- दीर्घं स्तुवन्तीत्यभिप्रायः । किमर्थं स्तुवन्तीत्यभिप्रायः । किमर्थं स्तुवन्तीत्युच्यते-गोत्रस्य दावने धनस्य दानाय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२