मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् ६

संहिता

इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।
यम॒र्का अ॑ध्व॒रं वि॒दुः ॥

पदपाठः

इन्द्रे॑ । विश्वा॑नि । वी॒र्या॑ । कृ॒तानि॑ । कर्त्वा॑नि । च॒ ।
यम् । अ॒र्काः । अ॒ध्व॒रम् । वि॒दुः ॥

सायणभाष्यम्

अस्मिन्निन्द्रे विश्वानि सर्वाणि वीर्या वीर्याणि सामर्थ्यानि कृतानि कर्त्वानि कर्तव्यानि च वर्तन्तइतिशेषः । यमिन्द्रं अर्काः स्तोतारः अध्वरमहिंसकं विदुर्जानन्ति तस्मिन्निन्द्रइति ॥ ६ ॥ पञ्चमेहनि मरुत्वतीये यत्पाञ्चजन्ययेतितृचः प्रतिपत् । सूत्रितंच-यत्पांचजन्ययाविशेन्द्रइत्सोमपाएकइति मरुत्वतीयस्यप्रतिपदनुचराविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२