मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् ७

संहिता

यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत ।
अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥

पदपाठः

यत् । पाञ्च॑ऽजन्यया । वि॒शा । इन्द्रे॑ । घोषाः॑ । असृ॑क्षत ।
अस्तृ॑णात् । ब॒र्हणा॑ । वि॒पः । अ॒र्यः । मान॑स्य । सः । क्षयः॑ ॥

सायणभाष्यम्

यद्यदा पांचजन्यया निषादपंचमाश्चत्वारोवर्णाः पंचजनास्तत्र भवयाविशा प्रजया इन्द्रे घोषाः स्तुतयोसृक्षत सृज्यन्ते तदानीमयमिन्द्रोऽस्तृणात् हिनस्ति शत्रून् बर्हणा स्वमहत्वे नानन्यसहायेनेत्यर्थः । तादृशः सअर्यः स्वामी इन्द्रोविपो मेधाविनः स्तोतुर्मम मानस्य पूजायाः सत्कारस्य क्षयोनिवासो भवति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३