मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् ८

संहिता

इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ ।
प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ॥

पदपाठः

इ॒यम् । ऊं॒ इति॑ । ते॒ । अनु॑ऽस्तुतिः । च॒कृ॒षे । तानि॑ । पौंस्या॑ ।
प्र । आ॒वः॒ । च॒क्रस्य॑ । व॒र्त॒निम् ॥

सायणभाष्यम्

इयमिदानीं क्रियमाणा अनुष्टुतिः अनुकूलास्तुतिः ते तव स्वभूता । कुतस्तवेति तानि प्रसिद्धानि वृत्रवधादीनि पौंस्या पुंस्त्वानि यतश्चकृषे अतस्त- इत्यर्थः । हे इन्द्र चक्रस्य रथाधारस्य वर्तानिं मार्गं प्रावः प्रारक्षः । अथास्मद्यज्ञगमनाय रक्षःकृता चक्रमार्गबाधा यथानभवति तथारक्षसीत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३