मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् १०

संहिता

तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः ।
स्याम॑ म॒रुत्व॑तो वृ॒धे ॥

पदपाठः

तत् । दधा॑नाः । अ॒व॒स्यवः॑ । यु॒ष्माभिः॑ । दक्ष॑ऽपितरः ।
स्याम॑ । म॒रुत्व॑तः । वृ॒धे ॥

सायणभाष्यम्

तत्स्तोत्रं दधानाः धारयन्तः अवस्यवो रक्षाकामावयं हे ऋत्विजो युष्माभिः सहिता इतिवायोज्यम् तादृशादक्षपितरः दक्षोन्नं तस्यपितरः पालकाः स्वामिनः स्याम । किमर्थं मरुत्वतोमरुद्भिः तद्वतइन्द्रस्य वृधे वर्धनाय यागाय ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३