मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् १

संहिता

उत्त्वा॑ मन्दन्तु॒ स्तोमा॑ः कृणु॒ष्व राधो॑ अद्रिवः ।
अव॑ ब्रह्म॒द्विषो॑ जहि ॥

पदपाठः

उत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ।
अव॑ । ब्र॒ह्म॒ऽद्विषः॑ । ज॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां स्तोमाः स्तुतय उत् उत्कृष्टं मन्दन्तु मादयन्तु । कृणुष्व कुरु राधोन्नं हे अद्रिवो वज्रवन्निन्द्रास्मभ्यम् । किञ्च ब्रह्मद्विषो ब्राह्मणद्वेष्टृनव जहि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४