मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् २

संहिता

प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।
न॒हि त्वा॒ कश्च॒न प्रति॑ ॥

पदपाठः

प॒दा । प॒णीन् । अ॒रा॒धसः॑ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ ।
न॒हि । त्वा॒ । कः । च॒न । प्रति॑ ॥

सायणभाष्यम्

पणीन् लुब्धानराधसो यष्टव्यधनरहितान् केवलधनान् पदा पादेनातिक्रम्य नि नितरां बाधस्व । कुतः यतस्त्वं महान् असि भवसि त्वा त्वां तव कश्चन कश्चिदपि देवः असुरो मनुष्योवा प्रति प्रतिनिधिः सदृशः नह्यस्ति खलु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४