मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् ३

संहिता

त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् ।
त्वं राजा॒ जना॑नाम् ॥

पदपाठः

त्वम् । ई॒शि॒षे॒ । सु॒ताना॑म् । इ॒न्द्र॒ । त्वम् । असु॑तानाम् ।
त्वम् । राजा॑ । जना॑नाम् ॥

सायणभाष्यम्

हे इन्द्र त्वं सुतानामभिषुतानां सोमानामीशिषे ईश्वरोभवसि तथा त्वमसुतानां बल्ल्याकारे वर्तमानानां चेशिषे त्वं जनानां सर्वेषां राजाभवसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४