मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् ४

संहिता

एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोष॑ञ्चर्षणी॒नाम् ।
ओभे पृ॑णासि॒ रोद॑सी ॥

पदपाठः

आ । इ॒हि॒ । प्र । इ॒हि॒ । क्षयः॑ । दि॒वि । आ॒ऽघोष॑न् । च॒र्ष॒णी॒नाम् ।
आ । उ॒भे इति॑ । पृ॒णा॒सि॒ । रोद॑सी॒ इति॑ ॥

सायणभाष्यम्

हे इन्द्र एहि आगच्छ । तथा प्रेहि प्रगच्छ । दिवि द्युलोकात् किं क्षयोनिवासम् । किकुर्वन् आघोषं शब्दं कुर्वन् । किमर्थं चर्षणीनां मनुष्याणां अर्थाय । अथवा हविः स्वीकृत्य प्रेहि सुखेन गच्छ दिवमाघोषन् यजमानं स्तुवन् उभे रोदसी द्यावापृथिव्यौ आपृणासि आपूरयसि ते जसा वृष्ट्या वा ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४