मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् ५

संहिता

त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव॑न्तं सह॒स्रिण॑म् ।
वि स्तो॒तृभ्यो॑ रुरोजिथ ॥

पदपाठः

त्यम् । चि॒त् । पर्व॑तम् । गि॒रिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।
वि । स्तो॒तृऽभ्यः॑ । रु॒रो॒जि॒थ॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं त्यं चित् तं चिदिति पूरणः पर्वतं पर्ववन्तं गिरिं मेघं उभयोर्मेघनामत्वादेको योगरूढोद्रष्टव्यः शतवन्तं रातोदकवन्तं तथा सहस्रिणं अप- रिमितवृष्टिं मेघं स्तोतृभ्योर्थाय विरुरोजिथ विरुज वज्रेण ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४