व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।
अ॒स्माकं॒ काम॒मा पृ॑ण ॥
व॒यम् । ऊं॒ इति॑ । त्वा॒ । दिवा॑ । सु॒ते । व॒यम् । नक्त॑म् । ह॒वा॒म॒हे॒ ।
अ॒स्माक॑म् । काम॑म् । आ । पृ॒ण॒ ॥
हे इन्द्र वयं त्वा त्वां दिवा अहनि सुते सोमेभिषुते हवामहे आह्वयामः तथा वय नक्तं हवामहे । आहूतः आगत्यास्माकं काममापृणापूरय ॥ ६ ॥