मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् ७

संहिता

क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।
ब्र॒ह्मा कस्तं स॑पर्यति ॥

पदपाठः

क्व॑ । स्यः । वृ॒ष॒भः । युवा॑ । तु॒वि॒ऽग्रीवः॑ । अना॑नतः ।
ब्र॒ह्मा । कः । तम् । स॒प॒र्य॒ति॒ ॥

सायणभाष्यम्

स्यः सवृषभोवर्षिता युवा नित्यतरुणः तुविग्रीवः विस्तीर्णकन्धरः अनानतः कदाचिदप्यनवनतः इन्द्रः क्व कुत्र वर्तते इति कोजानातीत्यर्थः । को ब्रह्मा स्तोता तमिन्द्रं सपर्यति पूजयति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५