मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् ८

संहिता

कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति ।
इन्द्रं॒ क उ॑ स्वि॒दा च॑के ॥

पदपाठः

कस्य॑ । स्वि॒त् । सव॑नम् । वृषा॑ । जु॒जु॒ष्वान् । अव॑ । ग॒च्छ॒ति॒ ।
इन्द्र॑म् । कः । ऊं॒ इति॑ । स्वि॒त् । आ । च॒के॒ ॥

सायणभाष्यम्

कस्य स्वित्सवनं स्विदिति विचिकित्सायां वृषा वर्षितेन्द्रो जुजुष्वान् प्रीयमाणोवगच्छति कउ कोवा यजमानइन्द्रं आचके जानाति स्तोतुं स्विदितिपूरणः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५