मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् १

संहिता

यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑ः ।
आ या॑हि॒ तूय॑मा॒शुभि॑ः ॥

पदपाठः

यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।
आ । या॒हि॒ । तूय॑म् । आ॒शुऽभिः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं नृभिः कर्मनेतृभिः अस्मदीयैः अध्वर्य्वादिभिः प्राग्वा अपाग्वा उदग्वान्यग्वा यतः कुतश्चिद्धूयसे अतस्तूयं तूर्णमाशुभिराशुगामिभिरश्वै- रायाह्यागच्छ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६