मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् २

संहिता

यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे ।
यद्वा॑ समु॒द्रे अन्ध॑सः ॥

पदपाठः

यत् । वा॒ । प्र॒ऽस्रव॑णे । दि॒वः । मा॒दया॑से । स्वः॑ऽनरे ।
यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः ॥

सायणभाष्यम्

यद्वा अथवा दिवो द्युलोकस्य प्रस्रवणे अमृतनिस्पन्दने स्थाने मादयासे माद्यसि यद्वा स्वर्णरे स्वर्गनयनेवा भूलोके अन्यस्य यागदेशे माद्यसि । यद्वा अन्धसः अन्धोन्नं तेन तत्कारणमुदकं लक्ष्यते तस्य समुद्रे समुन्दनापादनभूतेन्तरिक्षे माद्यसि तत्रतत्र वर्तमानमपि हुवइत्युत्तरत्र सम्बन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६