मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् ३

संहिता

आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से ।
इन्द्र॒ सोम॑स्य पी॒तये॑ ॥

पदपाठः

आ । त्वा॒ । गीः॒ऽभिः । म॒हाम् । उ॒रुम् । हु॒वे । गाम्ऽइ॑व । भोज॑से ।
इन्द्र॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां गीर्भिः स्तुतिभिः आहुवे आह्वयामि कीदृशं त्वां महां महान्तं उरुं प्रभूतं किमर्थं सोमस्यपीतये पानाय । आह्वाने दृष्टान्तः-भोजसे भोगाय गामिव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६