मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् ४

संहिता

आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ ।
रथे॑ वहन्तु॒ बिभ्र॑तः ॥

पदपाठः

आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ ।
रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥

सायणभाष्यम्

हे इन्द्र ते तव महिमानं माहात्म्यं रथे बिभ्रतो धारयन्तो हरयोश्वा आवहन्तु । तथा हे देव ते महस्तेजोरथे बिभ्रतः अश्वा आवहन्तु । अत्र महिम्नो महसश्च पृथगावहनासंभवात् ताभ्यां विशिष्टं वहंत्वित्यर्थः । अथवा महिमानं बिभ्रतस्ते त्वां रथेवहन्तु महोबिभ्रतश्च त्वां वहन्त्विति योज्यम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६