मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् ५

संहिता

इन्द्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
एहि॑ नः सु॒तं पिब॑ ॥

पदपाठः

इन्द्र॑ । गृ॒णी॒षे । ऊं॒ इति॑ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।
आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं गृणीषे उच्यसे इदं देहीदंकुर्वि ति । तथा स्तुषेउ स्तूयसे च । उइति चार्थे । कादृशस्त्वं महान् गुणैः प्रवृद्धः उग्रउद्गूर्णबलः ईशानकृत् ऎश्वर्यकर्ता तादृशस्त्वं एत्द्यागच्छ आगत्यच नः सुतं सोमं पिब ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६