मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् ६

संहिता

सु॒ताव॑न्तस्त्वा व॒यं प्रय॑स्वन्तो हवामहे ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥

पदपाठः

सु॒तऽव॑न्तः । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥

सायणभाष्यम्

सुतावन्तोभिषुतसोमवन्तः प्रयस्वन्तश्चरुपुरोडाशाद्यन्नवन्तश्च वयं त्वा त्वां हवामहे आह्वयामः किमर्थं इदं नोस्मदीयं बर्हिर्बर्हिषि यज्ञे बर्हिषिवा आसदे आसादनाय ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६