मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् ७

संहिता

यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् ।
तं त्वा॑ व॒यं ह॑वामहे ॥

पदपाठः

यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं यच्चिद्धि यस्मात्खलु शश्वतां बहूनां यजमानानां साधारणोसि । चिदितिपूरणः । हीतिप्रसिद्धौ । तं तादृशं साधारणं त्वा त्वां वयं हवा- महे आह्वयामः । इतरेभ्यः पूर्वमिति भावः ॥ ७ ॥ प्रातःसवने इदंतेसोम्यमिति होतुः प्रस्थितयाज्या । सूत्रितञ्च-इदंतेसोम्यंमधु मित्रंवयंहवामहइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७