विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि ।
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
विश्वा॑न् । अ॒र्यः । वि॒पः॒ऽचितः॑ । अति॑ । ख्यः॒ । तूय॑म् । आ । ग॒हि॒ ।
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥
हे इन्द्र अर्यः स्वामी त्वं विश्वान्विपश्चितः स्तोतॄन् अतिख्यः अतिक्रम्य पश्य । तदर्थं तूयं क्षिप्रमागहि आगत्य चास्मेस्मासु बृहच्छ्रवोन्नं यशोवा धेहि ॥ ९ ॥