मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् १०

संहिता

दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीना॑म् ।
मा दे॑वा म॒घवा॑ रिषत् ॥

पदपाठः

दा॒ता । मे॒ । पृष॑तीनाम् । राजा॑ । हि॒र॒ण्य॒ऽवीना॑म् ।
मा । दे॒वाः॒ । म॒घऽवा॑ । रि॒ष॒त् ॥

सायणभाष्यम्

हिरण्यवीनां हिरण्यवीतानां पृषतीनां राजा इन्द्रोमे दाता भवतु । हे देवाः मघवा इन्द्रोनारिषत् रिष्टोमाभवतु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७