मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् ११

संहिता

स॒हस्रे॒ पृष॑तीना॒मधि॑ श्च॒न्द्रं बृ॒हत्पृ॒थु ।
शु॒क्रं हिर॑ण्य॒मा द॑दे ॥

पदपाठः

स॒हस्रे॑ । पृष॑तीनाम् । अधि॑ । च॒न्द्रम् । बृ॒हत् । पृ॒थु ।
शु॒क्रम् । हिर॑ण्यम् । आ । द॒दे॒ ॥

सायणभाष्यम्

अहं पृषतीनां गवां सहस्रे अधि उपरि धारितं बृहत् महत् पृथु विस्तृतं चन्द्रं आह्लादकं शुक्रं निर्मलं हिरण्यं आददे स्वीकरोमि इन्द्रोणानीतम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७