मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् १

संहिता

तरो॑भिर्वो वि॒दद्व॑सु॒मिन्द्रं॑ स॒बाध॑ ऊ॒तये॑ ।
बृ॒हद्गाय॑न्तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिण॑म् ॥

पदपाठः

तरः॑ऽभिः । वः॒ । वि॒दत्ऽव॑सुम् । इन्द्र॑म् । स॒ऽबाधः॑ । ऊ॒तये॑ ।
बृ॒हत् । गाय॑न्तः । सु॒तऽसो॑मे । अ॒ध्व॒रे । हु॒वे । भर॑म् । न । का॒रिण॑म् ॥

सायणभाष्यम्

हे ऋत्विजो वोयूउअं तरोभिर्वे गैरश्वैरुपेतं वेगैरेववा विदद्वसुं वेदयद्वसुं धनावेदकमिन्द्रं सबाधो बाधासहिता ऊतये रक्षणाय बृहत्सामैतत्संज्ञं गाय- न्तः सन्तः परिचरतेति शेषः । कुत्रेति तदुच्यते-सुतसोमे सुतसोमकेध्वरे यज्ञे सोमयागे अहंच तमिन्द्रं हुवे आह्वयामि । कमिव भरंन भर्तारं कुटुंब- पोषकं कारिणं हितकरणशीलं यथा स्वहितकरणायाह्वयन्ति पुत्रादयस्तद्वत्तथाभूतमिन्द्रं हुवइति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८